॥ श्रीपञ्चमुखी हनुमत्कवचम् ॥
श्री हनुमान जी ऐसी देवता है जो हमेशा अपने भक्तों का संकट निवारण करके सब के ऊपर कृपा बरसाती है. श्री पंचमुखी हनुमान कवच पढ़ने से सभी भक्तों का कष्ट, दुख ,बाधा और अशोक परिणाम दूर होकर शुभ आशीर्वाद प्राप्त होता है.
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये॥
अर्थ: हे मनोहर, वायुवेग से चलने वाले, इन्द्रियों को वश में करने वाले, बुद्धिमानो में सर्वश्रेष्ठ। हे वायु पुत्र, हे वानर सेनापति, श्री रामदूत हम सभी आपके शरणागत है॥

॥ श्रीपञ्चमुखी हनुमत्कवचम् ॥
ॐ श्रीहरिगुरुभ्यो नमः । हरिः ॐ ।
विनियोग:
अस्य श्रीपञ्चमुखी श्रीवीर – हनुमत्कवच स्तोत्र मन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः । पञ्चमुखी श्रीरामचन्द्ररूपी परमात्मा देवता। हां बीजम् । ह्रीं शक्तिः चन्द्रः इति कीलकम् । पञ्चमुखान्तर्गतः श्रीरामचन्द्ररूपी – परमात्मा-प्रसाद – सिद्ध्यर्थे जपे विनियोगः ।
अथ करन्यासः
ॐ ह्रां अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ हूं मध्यमाभ्यां नमः । ॐ हैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
अथ हृदयादिन्यासः ।
ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ हूं शिखायै वषट् । ॐ हैं कवचाय हुं । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् ।
इति हृदयादिन्यासः ।
ॐ भूभुर्वस्वरोम् ।
अथ दिग्बन्धः ।
ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं स्वाहा ।
इति दिग्बन्धः ।
अथ ध्यानम् ।
वन्दे वानर नारसिंह खगराट् क्रोट्रागाश्व वक्त्रान्वितमः|
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं ऋचा ।
हस्ताब्जैरसिखेट पुस्तक – सुधा- कुम्भं कुशादीन् हलान्।
खट्टाङ्गं कनिभूरुहं दशभुजं सर्वारिदर्पापहम् ॥ १ ॥
पञ्चवक्त्रं महाभीमं त्रिषञ्चनयनैर्युतम्। दशभिर्बाहभिर्युक्तं सर्वकामार्थ सिद्धिदम् ॥ २ ॥
पूर्वे तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दंष्ट्रा कराल – वदनं भृकुटी कुटिलेक्षणम् ॥ ३ ॥
अन्यं तु दक्षिणे वक्त्रं नारसिंह महाद्भुतम् । ि अत्युग्रतेजो ज्वलितं भीषणं भयनाशनम् ॥ ४ ॥
पश्चिमे गारुडं वक्त्रं वज्रतुण्डं महाबलम् । सर्वरोग-प्रशमनं विषभूतादि-कृन्तनम् ॥ ५॥
उत्तरे सूकरं वक्त्रं कृष्णादित्यं महोज्ज्वलम् । पाताल- सिद्धिदं नृणां ज्वर-रोगादि-नाशनम् ॥ ६ ॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । येन वक्त्रेण विप्रेन्द्र सर्वविद्याः विनिर्ययुः ॥ ७॥
तत्पञ्चमुखं तस्य ध्यायतोमभयङ्करम् । खड्गं त्रिशूलं खट्वाङ्गं परश्वङ्कुशपर्वतम् ।। ८ ।।
खेटासीनि पुस्तकं च सुधा-कुम्भ-हलं तथा । एतान्यायुध-जातानि धारयन्तं भजामहे ॥ ९ ॥
प्रेतासनोपविष्टं तु दिव्याभरणभूषितम् । तु 前前 दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् ।। १० ।॥
सर्वैश्वर्यमयं देवमनन्तं विश्वतोमुखम् । एवं ध्यायेत् पञ्चमुखं सर्वकामफलप्रदम् ॥ ११ ॥
पञ्चास्यम् अच्युतम् अनेकविचित्रवीर्यम् । श्रीशङ्खचक्र- रमणीय-भुजाग्रदेशम ॥
पीताम्बरं मुकुटकुण्डलनूपुराङ्गं । उद्योतितं कपिवरं हृदि भावयामि ॥ १२ ॥
चन्द्रार्धं चरणारविन्दयुगुलं कौपीनमीञ्जीधरम् ।
नाभ्यां वै कटिसूत्रबद्धवसनं यज्ञोपवीतं शुभम् ॥
हस्ताभ्यामवलम्ब्य चाञ्जलिपुटं हारावलिं कुण्डलम् ।
विभ्रद्वीर्यशिखं प्रसन्नवदनं विद्याञ्जनेयं भजे ॥ १३ ॥
ॐ मर्कटेश महोत्साह सर्वशोकविनाशक । शत्रूं संहर मां रक्ष श्रियं दापय मे प्रभो ।। १४ ।।
इति ध्यानम् ।
अथ प्रयोगमन्त्राः ।
ॐ हरिमर्कट महामर्कटाय ॐ वं वं वं वं वं वं वौषट् हुं फट् घे घे घे स्वाहा ।
(कपिमुखे) ॐ हरिमर्कट महामर्कटाय ॐ फं फं फं फं फं फं हुं फट् घे घे घे स्वाहा।
(नारसिंहमुखे) ॐ हरिमर्कट महामर्कटाय ॐ खें खें खें खें खें खें हुं फट् घे घे घे स्वाहा ।
(गरुडमुखे) ॐ हरिमर्कट महामर्कटाय ॐ ठं ठं ठं ठं ठं ठं हुं फट् घे घे घे स्तम्भनाय स्वाहा ।
(वराहमुखे) ॐ हरिमर्कट महामर्कटाय ॐ ॐ ॐ ॐ ॐ ॐ हुं फट् घे घे घे आकर्षणसप्तकाय स्वाहा ।
(अश्वमुखे) ॐ हरिमर्कट महामन्त्रमिदं परिलिख्यति लिख्यति भूमितले द नश्यति नश्यति वामकरे परिमुञ्चति मुञ्चति श्रृङ्खलिका ।
इति प्रयोगमन्त्राः ।
अथ मूलमन्त्रः ।
ॐ हरिमर्कट महामर्कटाय हुं फट् घे घे घे स्वाहा।
ॐ नमो भगवते पञ्चवदनाय पूर्वे कपिमुखाय
ॐ श्रीवीरहनुमते ॐ ठं ठं ठं ठं ठं ठं सकलशत्रु
विनाशाय सर्वशत्रुसंहारणाय महाबलाय हुं फट्घे घे घे घे घे घे स्वाहा ॥ १ ॥
ॐ नमो भगवते पञ्चवदनाय दक्षिणे करालवदन श्रीनारसिंहमुखाय
ॐ श्रीवीरहनुमते ॐ हं हं हं हं हं हं सकलभूत-प्रेतदमनाय ब्रह्महत्या-
समन्धबाधा निवारणाय महाबलाय हुं फट्घे घे घे घे घे घे स्वाहा ॥ २ ॥
ॐ नमो भगवते पञ्चवदनाय पश्चिमे वीरगरुडमुखाय
ॐ श्रीवीरहनुमते ॐ मं मं मं मं मं मं महारुद्राय
सकलरोगविषपरिहाराय हुं फट् घे घे घे घे घे घे स्वाहा ॥ ३ ॥
ॐ नमो भगवते पञ्चवदनाय उत्तरे आदिवराहमुखाय
ॐ श्रीवीरहनुमते ॐ लं लं लं लं लं लं लक्ष्मणप्राणदात्रे
लङ्कापुरीदहनाय सकलसम्पत्कराय
पुत्रपौत्राद्यभिवृद्धिकराय हुं फट् घे घे घे घे घे घे स्वाहा ॥ ४ ॥
ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वदिशे हयग्रीवमुखाय
ॐ श्रीवीरहनुमते ॐ रूं रूं रूं रूंरूं रूं रुद्रमूर्तये
सकललोक वशीकरणाय वेदविद्यास्वरूपिणे हुं फट् घे घे घे घे घे घे स्वाहा ॥५॥
इति मूलमन्त्रः ।
| श्रीहनुमत्कवचम् प्रारम्भः |
ॐ नमो भगवते आंजनेयाय महाबलाय हुं फट् घे घे घे घे घे घे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनुमते प्रभवपराक्रमाय । आक्रान्ताय । सकल दिग्मण्डलाय ।
शोभिताननाय । धवलीकृतवज्रदेहाय । जगत्चिन्ति – ताय । रुद्रावताराय । लंकापुरीदाहनाय ।
उदधिलङ्घनाय । सेतुबन्धनाय । दशकण्ठ-शिराक्रान्ताय । सीताऽऽश्वास नाय ।
अनंतकोटी ब्रह्माण्ड-नायकाय । महाबलाय । वायुपुत्राय । अंजनीदेवीगर्भसम्भूताय ।
श्रीरामलक्ष्मण आनंदकराय । कपिसैन्यप्रियकराय । सुग्रीव-सहाय कारण- कार्यसाधकाय ।
पर्वतोत्पातनाय । कुमार ब्रह्म चारिणे गम्भीर-शब्दोदयाय । ॐ ह्रीं क्लीं सर्व दुष्टग्रह निवारणाय सर्वरोगज्वरोच्चाटणाय ।
डाकिनी शाकिनी विध्वंसनाय । ॐ श्रीं ह्रीं हुं फट् घे घे घे स्वाहा ॥ ६ ॥
ॐ नमो भगवते श्रीवीरहनुमते महाबलाय । सर्वदोष निवारणाय । सर्वदुष्टग्रह रोगोनुचाटनाय ।
सर्वभूत मण्डल- प्रेतमण्डल- सर्वपिशाचमण्डलादि सर्वदुष्टमण्ड लोबाटणाय । ॐ ह्रीं हैं हुं फट् घे घे घे स्वाहा ॥ ७॥
ॐ नमो भगवते श्रीवीरहनुमते सर्व भूतज्वरं सर्व प्रेतज्वरं ऐकाहिक –
द्व्याहिक – ज्याहिक – चातुर्थिक संतप्त – विषमज्वर – गुप्तज्वर –
तापज्वर – शीतज्वर माहेश्वरीज्वर – वैष्णवीज्वर सर्वज्वरान्
छिन्दि छिन्दि भिन्दि भिन्दि यक्षराक्षस-ब्रह्मराक्षसान् ।
भूत-बेताल प्रेतपिशाच्चान् उच्चाटयोच्चाटय । ॐ ह्रां ह्रीं हैं हुं फट् घे घे घे स्वाहा ॥ ८ ॥
ॐ नमो भगवते श्रीवीरहनुमते नमः । ॐ ह्रां ह्रीं हुं हैं ह्रौं ह्रः ।
आह आह असई असई एहि एहि ॐ ॐ हों हों हुं हुं फट् घे घे घे स्वाहा ।
ॐ नमो भगवते श्रीवीरहनुमते पवनात्मजाय । डाकिनी शाकिनी – मोहिनी – निःशेष – निरसनाय |
सर्पविषं निर्विषं कुरु निर्विषं कुरु । हारय हारय हुं फट् घे घे घे स्वाहा ॥ ९ ॥
ॐ नमो भगवते श्रीवीरहनुमते सिंहशरभ – शार्दूल-गण्डभेरुण्ड-
पुरुषामृगाणां ओश्यानी निरसनायाक्रमणं निरसनायाक्रमणं कुरु ।
सर्व रोगान्निवारय निवारय । आक्रोशय आक्रोशय । शत्रून् मर्दय मर्दय ।
उन्मादभयं छिन्दि छिन्दि भिन्दि भिन्दिछेदय छेदय मारय मारय
शोषय शोषय मोहय मोहय ज्वालय ज्वालय प्रहारय प्रहारय
सकल रोगान् छेदय छेदय । ॐ ह्रीं हूं हुं फट् घे घे घे स्वाहा ।। १० ।।
ॐ नमो भगवते श्रीवीरहनुमते सर्वरोगदुष्टग्रहान् ।
उच्चाटय उच्चाटय परबलान् क्षोभय क्षोभय मम सर्व-
कार्याणि श्रृङ्खलाबन्धनं मोक्षय मोक्षय कारागृहादिभ्यः मोचय मोचय ॥ ११ ॥
शिरःशूल कर्णशूल – अक्षिशूल – कुक्षिशूल पार्श्वशूलादि महा
रोगान् निवारय निवारय सर्वशत्रुकुलं संहारय संहारय ॥ १२ ॥
नागपाशं निर्मूलय निर्मूलय । ॐ अनंतवासुकी तक्षक-कर्कोटक कालगुलिकय
पद्म- महापद्म – कुमुद जलचर – रात्रिश्चर – दिवाचरादि सर्वविषं निर्विषं कुरु निर्विषं कुरु ।। १३ ।।
सर्व रोग निवारणं कुरु । सर्व राजसभा – मुखस्तम्भनं कुरु स्तम्भनं कुरु ।
सर्व राजभयं चोरभयं अग्निभयं प्रशमनं कुरु प्रशमनं कुरु ॥ १४ ॥
सर्व – परयन्त्र – परमन्त्र – परतन्त्र- परविद्या प्राकट्यं छेदय छेदय सन्त्रासय सन्त्रासय ।
मम सर्व विद्यां प्रकटय प्रकटय पोषय पोषय सर्वारिष्टं शामय शामय । सर्व शत्रून् संहारय संहारय ।। १५ ॥
सर्व – रोग – पिशाच्च बाधान् निवारय निवारय । असाध्य कार्यं साधय साधय ।
ॐ ह्रां ह्रीं हूं हैं ह्रौं ह्रः हुं फट् घे घे घे स्वाहा ॥ १६ ॥
फलश्रुतिः
य इदं कवचं नित्य यः पठेत् प्रयतो नरः । एकवारं जपेन्नित्यं सर्वशत्रु विनाशनम्।
द्विवारं तु जपेन्नित्यं सर्वशत्रु वशीकरम् । त्रिवारं यः पठेन्नित्यं सर्व-सम्पत्करं शुभम् ।
चतुर्वारं पठेन्नित्यं सर्वरोग निवारणम् । पञ्चवारं पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
षड्वारं तु पठेन्नित्यं सर्व देवबशीकरम् । सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ।
अष्टवारं पठेन्नित्यं इष्टकामार्थसिद्धिदम् । नववारं सप्तकेन सर्वराज्यवशीकरम् ।
दशवारं सप्तकयुगं त्रिकालज्ञान दर्शनम् । दशैकवारं पठणात् इमं मन्त्रं त्रिसप्तकम्।
स्वजनैस्तु समायुक्तो त्रैलोक्यविजयी भवेत् । सर्वरोगान् सर्वबाधान् सर्वभूत – प्रेतपिशाच –
ब्रह्मराक्षस – वेताल ब्रह्महत्यादि सम्बद्ध सकलबाधान् निवारय निवारय हुं फट् घे घे घे स्वाहा।
कवच स्मरणादेवं महाफलम वाप्नुयात् । पूजाकाले पठेद् यस्तु सर्वकार्यार्थसिद्धिदम् ।।
इति श्रीसुदर्शनसंहितायां रुद्रयामले अथर्वणरहस्यं श्रीसीताराम मनोहर पञ्चमुखी श्रीवीरहनुमत्कवचस्तोत्रं संपूर्णम् ।

षष्ठी पूजन
षष्ठी पूजन
Panchamukhi hanumankavach |॥ श्रीपञ्चमुखी हनुमत्कवचम् ॥
Panchamukhi hanumankavach॥ श्रीपञ्चमुखी हनुमत्कवचम् ॥श्री हनुमान जी ऐसी देवता है जो हमेशा अपने भक्तों का संकट निवारण करके सब के ऊपर कृपा बरसाती है. श्री पंचमुखी हनुमान कवच पढ़ने से सभी भक्तों का कष्ट, दुख ,बाधा और अशोक परिणाम दूर होकर शुभ आशीर्वाद प्राप्त होता है.
Nakshatra
Nakshatra क्या है 27 नक्षत्रों का गणित, कौन से नक्षत्र का क्या होता है असर अश्विनी, भरणी, कृतिका, रोहिणी, मृगशिरा, आद्रा, पुनर्वसु पुष्य, अश्लेशा, मघा, पूर्वाफाल्गुनी, उत्तराफाल्गुनी, हस्त, चित्रा, स्वाति, विशाखा, अनुराधा, ज्येष्ठा, मूल, पूर्वाषाढा, उत्तराषाढा, श्रवण, धनिष्ठा, शतभिषा, पूर्वाभाद्रपद, उत्तराभाद्रपद और रेवती।
Madhurastakam | मधुराष्टकं
श्री कृष्ण भगवान अति प्रिय स्तोत्र | अष्टक मधुराष्टक | मधुराष्टकम Madhurastakam अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरम् ।हृदयं मधुरं, गमनं मधुरं, मधुराधिपतेरखiलं मधुरम् ।।१।। वसनं मधुरं, चरितं मधुरं, वचनं मधुरं वलितं मधुरम्,चलितं मधुरं, भ्रमितं मधुरं, मधुराधिपतेरखिलं मधुरम्।।२।। वेणर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ,नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ।।३।। गीतं मधुरं पीतं मधुरं,…
श्रीपाद श्रीवल्लभ स्तोत्र | Shripad Shrivallabh Stotrashreepad Shreevallabh
श्रीपाद श्रीवल्लभ स्तोत्र | Shripad Shrivallabh Stotrashreepad Shreevallabh ॥ श्रीपाद श्रीवल्लभ स्तोत्र ॥ श्रीपाद वल्लभ गुरोः वदनारविन्दंवैराग्य दीप्ति परमोज्वलमद्वितीयम् । मन्दस्मितं सुमधुरं करुणार्द्र नेत्रंसंसार – ताप – हरणं सततं स्मरामि ।। श्रीपाद वल्लभ गुरोः करकल्पवृक्षंभक्तेष्ट – दान – निरतं रिपुसंक्षयं वै । संस्मरणमात्र चिति – जागरणं सुभद्रंसंसार – भीति – शमनं सततं भजामि ।। श्रीपाद…
श्री गजानन महाराज स्तोत्र | Gajanan maharaj stotra
श्री गजानन महाराज स्तोत्र | Gajanan maharaj stotra श्री गजानन महाराज का यह स्तोत्र भक्तों को शांति, समृद्धि और संकटों से मुक्ति दिलाने वाला है। ।। श्री गजानन महाराज स्तोत्र ।। हे सर्वाद्या सर्वशक्ती | हे जगदोद्वारा जगत्पति | साहय व्हावें सत्वरगति | या लेकराकारणें ||१|| जे जे काही ब्रम्हांडात | तें तें तुझें रुप…

- Madhurastakam | मधुराष्टकं
- श्रीपाद श्रीवल्लभ स्तोत्र | Shripad Shrivallabh Stotrashreepad Shreevallabh
- श्री गजानन महाराज स्तोत्र | Gajanan maharaj stotra
- श्री संकटनाशन गणेश स्तोत्र प्रणम्यं शिरसा देव गौरीपुत्रं Shri Sankat Nashan Ganesh Stotra
- महापुरुष योग 2025: मिथुन, कन्या और मीन राशियों के लिए bhadra and malavya mahapurush 2025

Jyotish
Read more: Panchamukhi hanumankavach |॥ श्रीपञ्चमुखी हनुमत्कवचम् ॥षष्ठी पूजन